सनातन ज्ञान, भक्ति पाठ और शास्त्र अब सरल रूप में।
Sanatan Vani आधुनिक रूप में सनातन ज्ञान
स्तोत्र

बटुक भैरव अष्टोत्तरशतनाम स्तोत्र

बटुक भैरव अष्टोत्तरशतनाम स्तोत्र

ध्यानम्

वन्दे बालं स्फटिकसदृशं कुन्तलोल्लासिवक्त्रं ।
दिव्याकल्पैर्नवमणिमयैः किंकिणीनूपुराढ्यम् ॥
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं ।
हस्ताब्जाभ्यां बटुकमनिशं शूलदण्डौ दधानम् ॥

स्तोत्रम्

मेरुपृष्ठे सुखासीनं देवदेवं त्रिलोचनम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥१॥

श्रीपार्वत्युवाच ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
आपदुद्धारणं मन्त्रं सर्वसिद्धिकरं परम् ॥२॥

सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया ।
ब्रूहि मे करुणासिन्धो लोकानां हितकाम्यया ॥३॥

श्रीमहादेव उवाच ।
शृणु देवि प्रवक्ष्यामि मन्त्रं आपदुद्धारकम् ।
सर्वशत्रुप्रशमनं सर्वरोगनिवारणम् ॥४॥

सर्वसिद्धिप्रदं पुण्यं सर्वकामफलप्रदम् ।
सर्वपापप्रशमनं सर्वमङ्गलकारकम् ॥५॥

ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं फट् ॥

ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट् ॥६॥

श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः ।
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥७॥

कङ्कालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥८॥

शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥९॥

धनदोऽधनहारी च धनवान् प्रीतिवर्धनः ।
नागहारो नागकेशो व्योमकेशः कपालभृत् ॥१०॥

कालः कपालमाली च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रः त्रिशिखी त्रिलोकपः ॥११॥

त्रिनेत्रतनयो डिम्भः शान्तः शान्तजनप्रियः ।
बटुको बटुवेषश्च खट्वाङ्गवरधारकः ॥१२॥

भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥१३॥

प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥१४॥

अष्टाधारः कलाधारः सर्पयुक्तः शशीशिखः ।
भूधरः भूदराधीशो भूपतिः भूदरात्मकः ॥१५॥

कङ्कालधारी मुण्डी च नागयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥१६॥

शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डभूषणः ।
बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥१७॥

सर्वापत्तारणो दुर्गो दुष्टभूतनिषूदनः ।
कालरूपः कलानाथः कामिनीवशकृद्वशी ॥१८॥

सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः प्रभाववान् ।
इत्यष्टोत्तरशतनाम्नां भैरवस्य महात्मनः ॥१९॥

फलश्रुतिः

अष्टोत्तरशतं नाम्नां भैरवस्य यः पठेत् ।
आपदुद्धारणं नाम स्तोत्रं सिद्धिकरं परम् ॥२०॥

सर्वपापविनिर्मुक्तः सर्वसिद्धिमवाप्नुयात् ।
भैरवस्य प्रसादेन लभते च परां गतिम् ॥२१॥